२११ - अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम्
२१२ - प्रालेयं मिहिका चाऽथ हिमानी हिमसंहतिः
२१३ - शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः
२१४ - तुषारः शीतलः शीतो हिमः सप्ताऽन्यलिङ्गकाः
२१५ - ध्रुव औत्तानपादिः स्यात् अगस्त्यः कुम्भसम्भवः
२१६ - मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी
२१७ - नक्षत्रमृक्षं भं तारा तारकाऽप्युडु वा स्त्रियाम्
२१८ - दाक्षायिण्योऽश्विनीत्यादितारा अश्वयुगश्विनी
२१९ - राधाविशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया
२२० - समा धनिष्ठाः स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियः
२२१ - मृगशीर्षं मृगशिरस्तस्मिन्नेवाग्रहायणी
२२२ - इल्वलास्तच्छिरोदेशे तारका निवसन्ति याः
२२३ - बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः
२२४ - जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः
२२५ - शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः
२२६ - अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः
२२७ - रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्वरौ
२२८ - तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः
२२९ - सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः
२३० - राशीनामुदयो लग्नं ते तु मेषवृषादयः
२३१ - सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः
२३२ - भास्कराहस्करब्रध्नप्रभाकरविभाकराः
२३३ - भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः
२३४ - विकर्तनार्कमार्तण्डमिहिरारुणपूषणः
२३५ - द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः 
२३६ - विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः
२३७ - भानुर्हंसः सहस्रांशुस्तपनः सविता रविः
२३८ - पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा
२३९ - कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः
२४० - प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः
२४१ - इनो भगो भामनिधिश्चांऽशुमाल्यञ्जिनीपतिः
२४२ - माठरः पिङ्गलो दण्डश्चण्डांशोः परिपार्श्वकाः
२४३ - सूरसूतोऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः
२४४ - परिवेषस्तुपरिधिरुपसूर्यकमण्डले
२४५ - किरणोस्रमयूखांऽशुगभस्तिघृणिरश्मयः
२४६ - भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम्
२४७ - स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः
२४८ - रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः
२४९ - कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति
२५० - तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका 
 

கருத்துக்கள்
இதுபோன்ற மேலும் கதைகள் மற்றும் புதுப்பிப்புகளுக்கு எங்கள் தந்தி குழுவில் சேரவும்.telegram channel

Books related to अमरकोषः (Amarkosh Sanskrit)


भारताचा शोध
पानी पानी रे....
Kitchen Katta
जगातील सर्वाधिक आळशी प्राणी
भ्रमंती
२२२ सुपर सुविचार
The Man Who Was Seven by J. Frederic Thorne
Beyond Universe
सूर्यमाला
टाईम मशीन-सत्य कि कल्पना
जॉब इंटरव्यू टिप्स
बिटकॉईन विषयी थोडेसे
शिवचरित्र
Around the Moon
The Return of Tarzan