२५१ - कालो दिष्टोऽप्यनेहापि समयोऽप्यथ पक्षतिः 
२५२ - प्रतिपद् द्वे इमे स्त्रीत्वे तदाद्यास्तिथयो द्वयोः
२५३ - घस्रो दिनाऽहनी वा तु क्लीबे दिवसवासरौ
२५४ - प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि
२५५ - व्युष्टं विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते
२५६ - प्रभातं च दिनान्ते तु सायं संध्या पितृप्रसूः
२५७ - प्राह्णापराह्णमध्याह्नस्त्रिसंध्यमथ शर्वरी
२५८ - निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा
२५९ - विभावरी तमस्विन्यौ रजनी यामिनी तमी
२६० - तमिस्रा तामसी रात्रिर्ज्यौत्स्नी चन्द्रिकयाऽन्विता
२६१ - आगामिवर्तमानार्हयुक्तायां निशि पक्षिणी
२६२ - गणरात्रं निशा बह्व्यः प्रदोषो रजनीमुखम्
२६३ - अर्धरात्रनिशीथौ द्वौ द्वौ यामप्रहरौ समौ
२६४ - स पर्वसंधिः प्रतिपत्पञ्चदश्योर्यदन्तरम्
२६५ - पक्षान्तौ पञ्चदश्यौ द्वे पौर्णमासी तु पूर्णिमा
२६६ - कलाहीने साऽनुमतिः पूर्णे राका निशाकरे
२६७ - अमावास्या त्वमावस्या दर्शः सूर्येन्दुसंगमः
२६८ - सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः
२६९ - उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च
२७० - सोपप्लवोपरक्तौ द्वौ अग्न्युत्पात उपाहितः
२७१ - एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ
२७२ - अष्टादश निमेषास्तु काष्टा त्रिंशत् तु ताः कला
२७३ - तास्तु त्रिंशत् क्षणस्ते तु मुहूर्तो द्वादशाऽस्त्रियाम्
२७४ - ते तु त्रिंशदहोरात्रः पक्षस्ते दशपञ्च च
२७५ - पक्षौ पूर्वाऽपरौ शुक्लकृष्णौ मासस्तु तावुभौ
२७६ - द्वौ द्वौ मार्गादि मासौ स्यादृतुस्तैरयनं त्रिभिः
२७७ - अयने द्वे गतिरुदग्दक्षिणाऽर्कस्य वत्सरः
२७८ - समरात्रिदिवे काले विषुवद्विषुवं च तत्
२७९ - पुष्पयुक्ता पौर्णमासी पौषी मासे तु यत्र सा
२८० - नाम्ना स पौषो माघाद्याश्चैवमेकादशाऽपरे
२८१ - मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः
२८२ - पौषे तैषसहस्यौ द्वौ तपा माघेऽथ फाल्गुने
२८३ - स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः
२८४ - वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम्
२८५ - आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः
२८६ - स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदाः समाः
२८७ - स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तुकार्तिके
२८८ - बाहुलोर्जौ कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम्
२८९ - वसन्ते पुष्पसमयः सुरभिर्ग्रीष्म ऊष्मकः
२९० - निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः
 

கருத்துக்கள்
இதுபோன்ற மேலும் கதைகள் மற்றும் புதுப்பிப்புகளுக்கு எங்கள் தந்தி குழுவில் சேரவும்.telegram channel

Books related to अमरकोषः (Amarkosh Sanskrit)


भारताचा शोध
पानी पानी रे....
Kitchen Katta
जगातील सर्वाधिक आळशी प्राणी
भ्रमंती
२२२ सुपर सुविचार
The Man Who Was Seven by J. Frederic Thorne
Beyond Universe
सूर्यमाला
टाईम मशीन-सत्य कि कल्पना
जॉब इंटरव्यू टिप्स
बिटकॉईन विषयी थोडेसे
शिवचरित्र
Around the Moon
The Return of Tarzan