४४१ - शृङ्गारवीरकरुणाऽद्भुतहास्यभयानकाः
४४२ - बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः
४४३ - उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा
४४४ - कृपा दयाऽनुकम्पा स्यादनुक्रोशोऽप्यथो हसः
४४५ - हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम्
४४६ - विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम्
४४७ - दारुणं भीषणं भीष्मं घोरं भीमं भयानकम्
४४८ - भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु
४४९ - चतुर्दश दरस्त्रासो भीतिर्भीः साध्वसं भयम्
४५० - विकारो मानसो भावोऽनुभावो भावबोधकः
४५१ - गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः
४५२ - दर्पोऽवलोकोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः
४५३ - अनादरः परिभवः परीभावस्तिरस्क्रिया
४५४ - रीढाऽवमाननाऽवज्ञाऽवहेलनमसूर्क्षणम्
४५५ - मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा साऽपत्रपाऽन्यतः
४५६ - क्षान्तिस्तितिक्षाऽभिध्या तु परस्य विषये स्पृहा
४५७ - अक्षान्तिरीर्ष्याऽसूया तु दोषारोपो गुणेष्वपि
४५८ - वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक् स्त्रियाम्
४५९ - पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि
४६० - कोपक्रोधाऽमर्षरोषप्रतिघा रुट् कृधौ स्त्रियौ
४६१ - शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः
४६२ - प्रेमा ना प्रियता हार्दं प्रेमस्नेहोऽथ दोहदम्
४६३ - इच्छा काङ्क्षा स्पृहेहा तृड् वाञ्छा लिप्सा मनोरथः
४६४ - कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः
४६५ - उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा
४६६ - स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे
४६७ - उत्साहोऽध्यवसायः स्यात् स वीर्यमतिशक्तिभाक्
४६८ - कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे
४६९ - कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता
४७० - कौतूहलं कौतुकं च कुतुकं च कुतूहलम्
४७१ - स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा
४७२ - हेला लीलेत्यमी हावाःक्रियाः शृङ्गारभावजाः
४७३ - द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च
४७४ - व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम्
४७५ - घर्मो निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता
४७६ - अवहित्थाकारगुप्तिः समौ संवेगसंभ्रमौ
४७७ - स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक् स्मितम्
४७८ - मध्यमः स्याद्विहसितं रोमाञ्चो रोमहर्षणम्
४७९ - क्रन्दितं रुदितम् क्रुष्टं जृम्भस्तु त्रिषु जृम्भणम्
४८० - विप्रलम्भो विसंवादो रिङ्गणं स्खलनं समे
४८१ - स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि
४८२ - तन्द्री प्रमीला भ्रकुटिर्भ्रुकुटिर्भ्रूकुटिः स्त्रियाम्
४८३ - अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे
४८४ - स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः
४८५ - कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः 
 

கருத்துக்கள்
இதுபோன்ற மேலும் கதைகள் மற்றும் புதுப்பிப்புகளுக்கு எங்கள் தந்தி குழுவில் சேரவும்.telegram channel

Books related to अमरकोषः (Amarkosh Sanskrit)


भारताचा शोध
पानी पानी रे....
Kitchen Katta
जगातील सर्वाधिक आळशी प्राणी
भ्रमंती
२२२ सुपर सुविचार
The Man Who Was Seven by J. Frederic Thorne
Beyond Universe
सूर्यमाला
टाईम मशीन-सत्य कि कल्पना
जॉब इंटरव्यू टिप्स
बिटकॉईन विषयी थोडेसे
शिवचरित्र
Around the Moon
The Return of Tarzan