१०४) उद्भिदस् तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम्
१०५) सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्
१०६) कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम्
१०७) रम्यं मनोहरं सौम्यं भद्रकं रमणीयकम्
१०८) तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्
१०९) अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम्
११०) निकृष्टप्रतिकृष्टाऽर्वरेफयाप्याऽवमाऽधमाः
१११) कुपूयकुत्सिताऽवद्यखेटगर्ह्याऽणकाः समाः
११२) मलीमसं तु मलिनं कच्चरं मलदूषितम्
११३) पूतं पवित्रं मेध्यं च वीध्रं तु विमलाऽर्थकम्
११४) निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम्
११५) असारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके
११६) क्लीबे प्रधानं प्रमुखप्रवेकाऽनुत्तमोत्तमाः
११७) मुख्यवर्यवरेण्याश् च प्रवर्होऽनवरार्ध्यवत्
११८) परार्ध्याऽग्रप्राग्रहरप्राग्रयाऽग्रयाऽग्रीयमग्रियम्
११९) श्रेयान् श्रेष्ठः पुष्कलः स्यात् सत्तमश् चाऽतिशोभने
१२०) स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः
१२१) सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठाऽर्थगोचराः
१२२) अप्राग्रयं द्वयहीने द्वे अप्रधानोपसर्जने
१२३) विशंकटं पृथु बृहद् विशालं पृथुलं महत्
१२४) वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे
१२५) स्तोकाऽल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु
१२६) स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाऽणवः
१२७) अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि
१२८) प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु
१२९) पुरुहूः पुरु भूयिष्ठं स्फारं भूयश च भूरि च
१३०) परः शताद्यास् ते येषां परा संख्या शतादिकात्
१३१) गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम्
१३२) विश्वमशेषं कृत्स्नं समस्तनिखिलाऽखिलानि निःशेषम्
१३३) समग्रं सकलं पूर्णमखण्डं स्यादनूनके
१३४) घनं निरन्तरं सान्द्रं पेलवं विरलं तनु
१३५) समीपे निकटासन्नसंनिकृष्टसनीडवत्
१३६) सदेशाऽभ्याशसविधसमर्यादसवेशवत्
१३७) उपकण्ठाऽन्तिकाऽभ्यर्णाऽभ्यग्रा अप्यभितोऽव्ययम्
१३८) संसक्ते त्वव्यवहितमपदान्तरमित्यपि
१३९) नेदिष्ठमन्तिकतमं स्याद्दूरं विप्रकृष्टकम्
१४०) दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम्
 

கருத்துக்கள்
இதுபோன்ற மேலும் கதைகள் மற்றும் புதுப்பிப்புகளுக்கு எங்கள் தந்தி குழுவில் சேரவும்.telegram channel

Books related to अमरकोषः (Amarkosh Sanskrit)


भारताचा शोध
पानी पानी रे....
Kitchen Katta
जगातील सर्वाधिक आळशी प्राणी
भ्रमंती
२२२ सुपर सुविचार
The Man Who Was Seven by J. Frederic Thorne
Beyond Universe
सूर्यमाला
टाईम मशीन-सत्य कि कल्पना
जॉब इंटरव्यू टिप्स
बिटकॉईन विषयी थोडेसे
शिवचरित्र
Around the Moon
The Return of Tarzan