२२१) पिचुमन्दश्च निम्बेऽथ पिच्छिलागुरुशिंशपा
२२२) कपिला भस्मगर्भा सा शिरीषस्तु कपीतनः
२२३) भण्डिलोऽप्यथ चाम्पेयश्चम्पको हेमपुष्पकः
२२४) एतस्य कलिका गन्धफली स्यादथ केसरे
२२५) बकुलो वञ्जुलोऽशोके समौ करकदाडिमौ
२२६) चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः
२२७) जया जयन्ती तर्कारी नादेयी वैजयन्तिका
२२८) श्रीपर्णमग्निमन्थः स्यात्कणिका गणिकारिका
२२९) जयोऽथ कुटजः शक्रो वत्सको गिरिमल्लिका
२३०) एतस्यैव कलिङ्गेन्द्रयवभद्रयवं फले
२३१) कृष्णपाकफलाविग्नसुषेणाः करमर्दके
२३२) कालस्कन्धस्तमालः स्यात्तापिच्छोऽप्यथ सिन्दुके
२३३) सिन्दुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि
२३४) वेणी गरा गरी देवताडो जीमूत इत्यपि
२३५) श्रीहस्तिनी तु भूरुण्डी तृणशून्यं तु मल्लिका
२३६) भूपदी शीतभीरुश्च सैवास्फोटा वनोद्भवा
२३७) शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा
२३८) सितासौ श्वेतसुरसा भूतवेश्यथ मागधी
२३९) गणिका यूथिकाम्बष्ठा सा पीता हेमपुष्पिका
२४०) अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता
२४१) सुमना मालती जातिः सप्तला नवमालिका
२४२) माध्यं कुन्दं रक्तकस्तु बन्धूको बन्धुजीवकः
२४३) सहा कुमारी तरणिरम्लानस्तु महासहा
२४४) तत्र शोणे कुरबकस्तत्र पीते कुरकण्टकः
२४५) नीली झिण्टी द्वयोर्बाणा दासी चार्तगलश्च सा
२४६) सैरेयकस्तु झिण्टी स्यात्तस्मिन्कुरबकोऽरुणे
२४७) पीता कुरण्टको झिण्टी तस्मिन्सहचरी द्वयोः 
२४८) ओण्ड्रपुष्पं जपापुष्पं वज्रपुष्पं तिलस्य यत्
२४९) प्रतिहासशतप्रासचण्डातहयमारकाः
२५०) करवीरे करीरे तु क्रकरग्रन्थिलावुभौ
२५१) उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः
२५२) मातुलो मदनश्चास्य फले मातुलपुत्रकः
२५३) फलपूरो बीजपूरो रुचको मातुलुङ्गके
२५४) समीरणो मरुबकः प्रस्थपुष्पः फणिज्जकः
२५५) जम्बीरोऽप्यथ पर्णासे कठिञ्जरकुठेरकौ
२५६) सितेऽर्जकोऽत्र पाठी तु चित्रको वह्निसंज्ञकः
२५७) अर्काह्ववसुकास्फोटगणरूपविकीरणाः
२५८) मन्दारश्चार्कपर्णोऽत्र शुक्लेऽलर्कप्रतापसौ
२५९) शिवमल्ली पाशुपत एकाष्ठीलो बुको वसुः
२६०) वन्दा वृक्षादनी वृक्षरुहा जीवन्तिकेत्यपि
 

கருத்துக்கள்
இதுபோன்ற மேலும் கதைகள் மற்றும் புதுப்பிப்புகளுக்கு எங்கள் தந்தி குழுவில் சேரவும்.telegram channel

Books related to अमरकोषः (Amarkosh Sanskrit)


भारताचा शोध
पानी पानी रे....
Kitchen Katta
जगातील सर्वाधिक आळशी प्राणी
भ्रमंती
२२२ सुपर सुविचार
The Man Who Was Seven by J. Frederic Thorne
Beyond Universe
सूर्यमाला
टाईम मशीन-सत्य कि कल्पना
जॉब इंटरव्यू टिप्स
बिटकॉईन विषयी थोडेसे
शिवचरित्र
Around the Moon
The Return of Tarzan